संस्कृत-शब्दकोशः

रोड रोदनिका

रोदन

वाचस्पत्यम्

रोदन ||‍ न० रुद—ल्युट् । १ क्रन्दने २ अश्रुणि मेदि० । करणे ल्युट् ङीप् । ३ दुरालभायाम् अमरः । संज्ञायां कन् अत इत्त्वम् । रोदनिका ४ यवासायाम् अमरः ।


शब्दकल्पद्रुमः

रोदनं || क्ली (रुद् + ल्युट् ।)
क्रन्दनम् । (यथा, चाणक्यशतके । ६२ । “दुर्ब्बलस्य बलं राजा बालानां रोदनं बलम् । बलं मूर्खस्य मौनित्वं चौराणामनृतं बलम् ॥”)
अस्रु । इति मेदिनी । ने, ११९ ॥ तस्य शुभाशुभं यथा, —
“अनश्रु स्निग्धरुदितमदीनं शुभदं नृणाम् । प्रचुराश्रु दीनं रूक्षञ्च रुदितं न सुखावहम् ॥” इति गारुडे ६६ अध्यायः ॥ कपिलाधेनूनां नेत्राम्बुना रत्नसमूहो जातः । यथा, —
“युद्धे मुनिं मृतं दृष्ट्वा रुरोद कपिला मुहुः ॥” इत्युपक्रम्य । “तदश्रुबिन्दुना मर्त्ये रत्नसंघो बभूव ह ॥” रोदनाश्रुपतनेन मृतानां नरकं स्यात् । यथा, —
“ज्ञानिनो मा रुदन्त्येव मा रोदीः पुत्त्र साम्प्र- तम् । रोदनाश्रुप्रपतनान्मृतानां नरकं ध्रुवम् ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे २७ अध्यायः ॥ मृतमुद्दिश्य रोदननिषेधो यथा, —
“श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्य्या विधानतः ॥” इति शुद्धितत्त्वम् ॥



Correction: