शब्दकल्पद्रुमः
रोदसी || व्य, स्वर्गः । भूमिः । यथा, — “द्यावापृथिव्यौ रोदस्यौ रोदसी रोदसीति च ॥” इति भरतधृतकोषः ॥
रोदसी || स्त्री (रोदस् + गौरादित्वात् ङीष् ।) स्वर्गः । भूमिः । इत्यमरः । ३ । ३ । २२८ ॥