वाचस्पत्यम्
रोध्र || न० रुध—रन् । १ पापे २ अपराधे ३ लोध्रवृक्षे पु० मेदि० ।
शब्दकल्पद्रुमः
रोध्रं || क्ली (रुध्यतेऽनेन । रुध + बाहुलकात् रन् ।)
अपराधः । पापम् । इति मेदिनी । रे, ८१ ॥
शब्दकल्पद्रुमः
रोध्रः || पुं, लोध्रः । इति मेदिनी राजनिर्घण्टश्च ॥ (यथा, सुश्रुते । १ । १२ । “मधूच्छिष्टं समधुकं रोध्रं सर्ज्जरसं तथा । मञ्जिष्ठां चन्दनं मूर्व्वां पिष्ट्वा सर्पिर्व्विपाचयेत् ॥”)