संस्कृत-शब्दकोशः

रोम रोमकन्द

रोमक

वाचस्पत्यम्

रोमक ||‍ न० रोमेव निविडं कायति कै क । (रुम) १ नगरे सू० सि० । २ पांशुलवणे ३ अयस्कान्ते च राजनि० ।


शब्दकल्पद्रुमः

रोमकं || क्ली (रोमे कायतीति । कै + कः ।)
पांशुलवणम् । (यथा, सुश्रुते । १ । ४२ । “सैन्दवसौवर्च्चलविडपाक्यरोमकसामुद्रकपक्त्रिम- यवक्षारोषप्रसूतसुवर्च्चिकाप्रभृतीनि समासेन लवणो वर्गः ॥”)
अयस्कान्तभेदः । इति राज- निर्घण्टः ॥ (रोमैव । जनपदविशेषः । तद्देश- वासिनि, पुं भूम्नि । यथा, महाभारते । २ । ५० । १५ । “औष्णीकानन्तवासांश्च रोमकान् पुरुषादकान् ॥”)



Correction: