संस्कृत-शब्दकोशः

रोमगुच्छक रोमन्थ

रोमन्

वाचस्पत्यम्

रोमन् ||‍ न० रु—मनिन् । देहजाते अङ्कुराकारे केशतुल्ये पदार्थे (रॐया) अमरः ।


शब्दकल्पद्रुमः

रोम || [न्] क्ली, (रौतीति । रु + “नामन्- सीमन्व्योमन्रोमन्निति ।” उणा० ४ । १५० । इति मनिन्प्रत्ययेन साधुः ।)
शरीरजाताङ्कुरः । रॐया इति भाषा । तत्पर्य्यायः । लोम २ अङ्गजम् ३ त्वग्जम् ४ चर्म्मजम् ५ तनूरुहम् ६ । इति राजनिर्घण्टः ॥ स्थानविशेषे तस्य शुभाशुभसूचकत्वं यथा, —
“अल्परोमयुता श्रेष्ठा जङ्घा हस्तिकरोपमा । रोमैकैकं कूपके स्यान्नृपाणान्तु महात्मनाम् ॥ द्वे द्वे रोमे पण्डितानां श्रोत्रियाणान्तथैव च । रोमत्रयं दरिद्राणां रोगी निर्म्मांसजानुकः ॥” इति गारुडे ६३ अध्यायः ॥ रहस्यरोम्नोऽस्पृश्यत्वं यथा, —
“न सर्पशस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत् । रोमाणि च रहस्यानि नाशिष्टेन सदा व्रजेत् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ (जनपदविशेषः । तद्देशवासिनि । पुं भूम्नि । यथा, महाभारते । ६ । ९ । ५५ । “वानायवो दशाःपार्श्वा रोमाणः कुशविन्द्ववः ॥”)



Correction: