संस्कृत-शब्दकोशः

रोल रोष

रोलम्ब

वाचस्पत्यम्

रोलम्ब ||‍ पुंस्त्री रौति रु विच् रौः सन् लम्बते गच्छति लम्ब- अच् कर्म्भ० रोड अम्बच् डस्य लो वा । भ्रमरे त्रिका० स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

रोलम्बः || पुं, (रौतीति । रु + विच् । रौः कुजन् सन् लम्बति स्थानात् स्थानान्तरं गच्छतीति । लम्ब + अच् ।)
भ्रमरः । इति त्रिकाण्डशेषः ॥ (यथा, वक्रोक्तिपञ्चाशिकायाम् । ४० । “गण्डे दानवनाशिनो गणपतेः कुर्व्वन्ति कोलाहलं रोलम्बा दनुसूनुनाशनविधौ सक्ताः स्युरेते कथम् ॥”)



Correction: