वाचस्पत्यम्
रोहिण || न० रुह—इनन् । पञ्चदशधा विभक्तदिनस्य नवेमे भागे “कुर्य्यादारोहिणं बुधः” इति स्मृतिः । रोहिणी देवताऽस्य अण् । रौहिणमप्यत्र । २ वटवृक्षे, ३ रोहि- तकवृक्षे ४ भूतृणे च पु० राजनि० ।
शब्दकल्पद्रुमः
रोहिणं || क्ली (रुह् + “रुहेश्च ।” उणा० २ । ५५ । इति इनन् ।)
कालभेदः । इत्युणादि- कोषः ॥ स तु दिवसीयनवममुहूर्त्तः । पूर्ब्बाह्ण- श्राद्धस्य गौणकालत्वेनोत्तरावधिः । अपराह्ण- श्राद्धस्य पूर्ब्बावधिः । एकोद्दिष्टश्राद्धस्य समा- पनकालः । रौहिणञ्चास्य नामान्तरम् । यथा । अत्र पूर्ब्बाह्णे श्राद्धमभिधाय रौहिणन्तु न लङ्घयेदित्यभिधानेन पूर्ब्बाह्णश्राद्धस्य सङ्गवात् परो रौहिणपर्य्यन्तगौणपूर्व्वाह्णकालः प्रतीयते तेन रौहिणं पूर्ब्बाह्णश्राद्धस्य गौणकालत्वेनो- त्तरावधिः अपराह्णश्राद्धस्य पूर्ब्बावधिरित्यव- गम्यते । रौहिणन्तु दिवसस्य नवममुहूर्त्तः । तस्य ज्योतिषोक्तरोहिणीदैवतत्वात् रौहिणत्व- मिति । व्यासः । “आरभ्य कुतपे श्राद्धं कुर्य्यादारौहिणं बुधः । विधिज्ञो विधिमास्थाय रौहिणन्तु न लङ्घयेत् ॥” इति श्राद्धतत्त्वम् ॥
शब्दकल्पद्रुमः
रोहिणः || पुं, (रोहतीति । रुह् + “रुहेश्च ।” उणा० २ । ५५ । इति इनन् ।)
भूतृणः । वटवृक्षः । रोहितकवृक्षः । इति राजनिर्घण्टः ॥ (शाल्मल- द्वीपस्थपर्व्वतविशेषः । यथा, मात्स्ये । १२१ । ९६ । “रोहितो यस्तृतीयस्तु रोहिणो नाम विश्रुतः ॥”)