संस्कृत-शब्दकोशः

रोहितेय रोहिन

रोहित्

शब्दकल्पद्रुमः

रोहित् || पुं, (रोहतीति । रुह + “हृसृरुहियुषिभ्य इतिः ।” उणा० १ । ९९ । इति इतिः ।)
सूर्य्यः । इति मेदिनी । टे, १४७ ॥ वर्णभेदः । मत्स्यभेदः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (ऋष्यमृगः । यथा, वाजसनेयसंहितायाम् । “२४ । ३० ॥ “मनुष्यराजाय मर्कटः शार्द्दू- लाय रोहित् ।” “एको रोहित् ऋष्यः शार्द्दू- लाय ।” इति तद्भाष्ये महीधरः ॥ रोहितवर्ण- विशिष्टे, त्रि । (यथा, ऋग्वेदे । १ । १०० । १६ । “रोहित् श्यावा सुमदंशुर्ललामीः ।” “रोहित् रोहितवर्णा श्यावा श्यामवर्णा ।” इति तद्भाष्ये सायणः ॥)


शब्दकल्पद्रुमः

रोहित् || स्त्री (रुह + “हृसृरुहियुषिभ्यं इतिः ।” उणा० १ । ९९ । इति इतिः ।)
मृगी । (“ऋष्यस्य मृगस्य मृगी रोहिदुच्यते । तथाच महिम्नः स्तवे । गतं रोहिद्भूतां रिरमयिषु- मृष्यस्य वपुषा ।” इत्युज्ज्वलः । १ । ९९ ॥)
लता- भेदः । इति मेदिनी । टे, १४७ ॥ (वडवा । यथा, ऋग्वेदे । १ । १४ । १२ । “युक्ष्वाह्यरुषी रथे हरितो देवा रोहितः ॥” “हे देवाग्ने रोहितः रोहिच्छब्दाभिधेयास्त्वदीया वडवाः रथे युक्ष्व युज योजय ।” इति तद्भाष्ये सायणः ॥ * ॥
रोहन्त्याभिर्बीजानि तज्जलेन हि बीजानि प्ररोहन्तीति तथात्वम् । नदी । इति निधण्टुः । १ । १३ । १८ ॥ निगमेषु बहुवच- नान्तत्वेन प्रायशः श्रवणात् बहुवचनान्तत्वम् ॥)



Correction: