वाचस्पत्यम्
लक्ष्मीकान्त || पु० ६ त० । १ विष्णौ, २ राजनि च । लक्ष्मी- पत्यादयोऽप्यत्र । “विहाय लक्ष्मीपतिलक्ष्मकार्मुकम्” किरा० । लक्ष्मीपतिस्तु लवङ्गे पुगवृक्षे च विश्वः ।
शब्दकल्पद्रुमः
लक्ष्मीकान्तः || पुं, (लक्ष्म्याः कान्तः ।)
नारायणः । यथा, —
“नमः कमलनेत्राय हरये परमात्मने । जगतः पालयित्रे च लक्ष्मीकान्त नमोऽस्तु ते ॥” इति जन्माष्टमीव्रतकथा ॥