वाचस्पत्यम्
लघ || अभोजने सीमातिक्रमे गतौ च भ्वा० आ० सक० सेट् इदित् । लङ्घते अलङ्घिष्ट । “कल्लोलिनीवल्लभमुल्ललङ्घे” महाना० ।
वाचस्पत्यम्
लघ || आस्वादने चु० उभ० सक० सेट् । लाघयति—ते अलीलघत्—त
वाचस्पत्यम्
लघ || प्रकाशे चु० उभ० स० सेट् इदित् । लङ्घयति ते अललङ्घत् त
वाचस्पत्यम्
लघ || शोके भ्वा० पर० सक० सेट् इदित् । लङ्घति अलङ्घीत् ।
शब्दकल्पद्रुमः
लघ || इ क त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।)
इ क, लङ्घयति । त्विषि दीप्तौ । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लघ || इ ङ अभुग्गत्योः । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सक० च-सेट् ।)
इ, लङ्घ्यते । ङ, लङ्घते । अभुक् भोजनाभावः । तथा च । ‘ये गुणा लङ्घने प्रोक्तास्ते गुणा लघुभोजने ॥’ इति वैद्यकम् ॥ लङ्घने उपवासे इत्यर्थः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लघ || इ शोषे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
इ, लङ्घ्यते । शोष इह अल्पी- करणम् । ‘यं व्याधिरतिदीप्ताङ्गं कदाचित्तु न लङ्घति ॥’ इति हलायुधः ॥ गतावप्यन्ये । अन्ये चालङ्घिषुः शैलान् । इति दुर्गादासः ॥