वाचस्पत्यम्
लघुबदर || पु० कर्म० । १ क्षुद्रकोलौ । २ भूवदर्य्याम् स्त्री राजनि० ङीष् ।
शब्दकल्पद्रुमः
लघुबदरः || पुं, (लघुः क्षुद्रो बदरः ।)
क्षुद्रकोलिः । तत्पर्य्यायः । सूक्ष्मफलः २ बहुकरः ३ सूक्ष्म- पत्रः ४ दुस्मर्शः ५ मधुरः ६ दरहारः ७ शिखिप्रियः ८ । इति राजनिर्घण्टः ॥ अस्य फलगुणाः । “कर्क्कन्धुः क्षुद्रबदरं कथितं पूर्ब्बसूरिभिः । अम्लं स्यात् क्षुद्रबदरं कषायं कथितं मनाक् ॥ स्निग्धं गुरु च तिक्तञ्च वातपित्तापहं स्मृतम् । शुष्कं भेद्यग्निकृत् सर्व्वं लघु तृष्णाक्लमा- स्रजित् ॥” इति भावप्रकाशः ॥ अस्य पक्वफलगुणाः । मधुराम्लत्वम् । कफवात- नाशित्वम् । रुच्यत्वम् । स्निग्धत्वम् । जन्तुकारक- त्वम् । ईषत्पित्तार्त्तिदाहशाषघ्नत्वञ्च । इति राजनिर्घण्टः ॥