वाचस्पत्यम्
लज || अन्तर्द्धाने चुरा० उ० सक० सेट् । लाजयति—ते अली- लजत् त ।
वाचस्पत्यम्
लज || तिरस्कारे भ्वा० पर० सक० सेट् इदित् । लञ्जति अलञ्जीत्
वाचस्पत्यम्
लज || भाषणे हिंसायां दाने च सक० सामथ्य वास च अक० चुरा० उभ० सेट् इदित् । लञ्जयति—ते अललञ्जत् त ।
वाचस्पत्यम्
लज || भासने अद० चु० उभ० सक० सेट् । लजयति—ते अललजत्—त
वाचस्पत्यम्
लज || व्रीडायाम् भ्वा० आ० अक० सेट् । लजते अलजिष्ट ।
शब्दकल्पद्रुमः
लज || इ क भाषट्टार्थे । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-अक०-सक० च-सेट् ।)
इ क, लञ्जयति । भा दीप्तिः षट्टार्थो निकेतनहिंसा- बलदानानि । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लज || इ भर्त्से । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
इ, लञ्ज्यते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लज || क अन्तर्द्धौ । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।)
अन्तर्द्धिराच्छादनम् । क, लाजयति चन्द्रं मेघः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लज || ङ व्रीडे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।)
ङ, लजते । निष्ठायां लग्न इत्यन्ये । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लज || त् क भासने । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-अक०-सेट् ।)
क, लजयति । भासनं दीप्तिः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लज || भर्त्से । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
लजति । इति दुर्गादासः ॥