वाचस्पत्यम्
लज्जाशील || त्रि० लज्जां शीलयति शील—अण् । लज्जाविशिष्टे ।
शब्दकल्पद्रुमः
लज्जाशीलः || त्रि (लज्जा शीलं स्वभावो यस्य ।) लज्जाविशिष्टः । तत्पर्य्यायः । अपत्रपिष्णुः २ । इत्यमरः ॥ लज्जितः ३ । इति शब्दरत्नावली ॥