वाचस्पत्यम्
लट || पु० लट—बा० घञर्थे क । १ प्रमादवचगे २ दोषे च विश्वः ।
वाचस्पत्यम्
लट || बालभावे अक० उक्तौ द्वि० भ्वा० पर० सेट् । लटति । अलाटीत् अलटीत् ।
शब्दकल्पद्रुमः
लटः || पुं, (लटति यथेच्छया वदतीति । लट + अच् ।)
प्रमादवचनम् । दोषः । इति विश्वः ॥
शब्दकल्पद्रुमः
लट || बाल्योक्त्योः । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सक० च-सेट् ।)
बालोऽज्ञः तस्य भावो बाल्यं व्यामोह इति यावत् । लटति लोकः शिशुः स्यात् । किञ्चिद्वदति वेत्यर्थः । इति दुर्गादासः ॥