लताजिह्व
लताद्रुम
लतातरु
वाचस्पत्यम्
लतातरु || पु० लतेव दीर्घस्तरुः । १ तालवृक्षे २ नागरङ्गवृक्ष च शब्दच० । ३ शालवृक्षे राजवल्ल० । लताद्रुमादयोऽप्यत्र ।
शब्दकल्पद्रुमः
लतातरुः || पुं, (लतेव दीर्घस्तरुः ।)
नारङ्गवृक्षः । तालवृक्षः । इति शब्दमाला ॥ शालवृक्षः । इति त्रिकाण्डशेषः ॥