वाचस्पत्यम्
लताफल || न० लतायां फलमम्य । पटोले ।
शब्दकल्पद्रुमः
लताफलं || क्ली (लतायां फलमस्य ।)
पटोलः । यथा, —
“वास्तूकः कारवेल्लश्च वार्त्ताकुश्च शुभप्रदा । लताफलञ्च शुभदं सर्व्वं सर्व्वत्र निश्चितम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अध्यायः ॥