संस्कृत-शब्दकोशः

लतालक लतावेष्टितक

लतावेष्ट

वाचस्पत्यम्

लतावेष्ट ||‍ पु० “बाहुभ्यां पादयुग्माभ्यां वेष्टयित्वा स्त्रियं रमेत् । लथुलिङ्गताडनं योनौ लतावेष्टमुच्यते” रसम० उक्ते स्रालिङ्गनभेदे ।


शब्दकल्पद्रुमः

लतावेष्टः || पुं, (लतयेव आवेष्टो वेष्टनं यत्र ।)
षोडशरतिबन्धान्तर्गततृतीयबन्धः । यथा, —
“बाहुभ्यां पादयुग्माभ्यां वेष्टयित्वा स्त्रियं रमेत् । लघुलिङ्गताडनं योनौ लतावेष्टोऽयमुच्यते ॥” इति रतिमञ्जरी ॥ * ॥
पर्व्वतविशेषः । यथा, —
“अन्वेषणे निरुद्धस्य चरान् व्यादिष्टवान् तदा । अभ्यन्तरञ्च मार्गध्वं बाह्यतश्च समन्ततः ॥ वेणुमन्तं लतावेष्टं तथा रैवतकं गिरिम् । ऋक्षवन्तं गिरिञ्चैव मार्गध्वं त्वरिता हयैः ॥” इति हरिवंशे वाणयुद्धम् ॥ (पर्व्वतोऽयं द्वारकाया दक्षिणस्यां दिशि स्थितः । यथा, तत्रैव । १५५ । १६ । “दक्षिणस्यां लतावेष्टः पञ्चवर्णो विराजते । इन्द्रकेतुप्रतीकाशः पश्चिमस्यां तथा क्षुपः ॥”)



Correction: