वाचस्पत्यम्
लप्सिका || स्त्री खाद्यभेदे कृतान्नशब्दे २ । ८१ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
लप्सिका || स्त्री खाद्यविशेषः । लप्सी । इति ख्याता । यथा, —
“समितां सर्पिषा भृष्टां शर्करां पयसि क्षिपेत् । तस्मिन् घनीकृते न्यस्येत् लवङ्गमरिचादिकम् । सिद्धैषा लप्सिका ख्याता गुणानस्या वदा- म्यहम् ॥ लप्सिका बृं हणी वृष्या बल्या पित्तानिलापहा । स्निग्धा श्लेष्मकरी गुर्व्वी रोचनी तर्पणी परम् ॥” इति भावप्रकाशः ॥