वाचस्पत्यम्
लम्बो(म्बौ)ष्ठ || पुंस्त्री० लम्बौ ओष्ठौ यस्य । उष्ट्रे त्रिका० स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
लम्बोष्ठः || पुं, (लम्ब ओष्ठो यस्य । ओत्त्वोष्ठयोः समासे वा । इति साधुः ।)
उष्ट्रः । इति राजनिर्घण्टः ॥ लम्बमानौष्ठयुक्ते, त्रि । (क्षेत्र- पालदेवताविशेषः । यथा, प्रयोगसारे क्षेत्र- पालप्रकरणे । “युगान्तो वाह्यकश्चाथ लम्बोष्ठो वसवस्तथा ॥”)