वाचस्पत्यम्
ललज्जिह्व || पु० लडन्ती आस्वाद्यास्वादनाय चलन्ती जिह्वा यस्य डस्य लः । १ कुक्कुरे, २ उष्ट्रे, ३ हिंस्रसत्त्वे त्रि० मेदि० स्त्रियां जातित्वात् ङीष् । ४ चलद्रसवायुक्ते त्रि० । स्त्रियां टाप् ।
शब्दकल्पद्रुमः
ललज्जिह्वः || पुं, (ललन्ती जिह्वा यस्य ।)
उष्ट्रः । कुक्कुरः । हिंस्रे, त्रि । इति मेदिनी । वे, १६ ॥ (चलद्रसनायुक्ते च त्रि । यथा, कथासरित्- सागरे । १०६ । १२७ । “तावच्च प्रकटीभूय भगवान् भैरवाकृतिः । उद्धृतासिर्ललज्जिह्वः कृत्वा हुंकारमभ्यधात् ॥”)