वाचस्पत्यम्
ललनाप्रिय || पु० कर्म० । १ कदम्बे । २ ह्रोवेरे न० राजनि० । ३ जिह्वाप्रिये, ५ रमणीवल्लभे च त्रि० ।
शब्दकल्पद्रुमः
ललनाप्रियं || क्ली (ललंनानां प्रियम् ।)
ह्रीवेरम् । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
ललनाप्रियः || पुं, (ललनानां प्रियः ।)
कदम्बः । इति राजनिर्घण्टः ॥ कामिनीवल्लभश्च ॥