वाचस्पत्यम्
ललाट || न० लड—अच् डस्य लः ललमटति अट—अण् । अल- लाधःस्थेऽङ्गभेदे (कपाल) अमरः ।
शब्दकल्पद्रुमः
ललाटं || क्ली (ललं ईप्सामटति ज्ञापयतीति । अट् + अण् ।)
अवयवविशेषः । कपाल इति ख्यातम् । तत्पर्य्यायः । अलिकम् २ गोधिः ३ । इत्यमरः ॥ महाशङ्खः ४ शङ्खः ५ भालः ६ कपालकः ७ अलीकम् ८ । इति शब्दरत्नावली ॥ ललाटकम् ९ । इति धनञ्जयः ॥ तस्य शुभाशुभ- लक्षणम् । यथा, —
“उन्नतैर्विपुलैः शङ्खैर्ललाटैर्विषमैस्तथा । निर्द्धना धनवन्तश्च अर्द्धेन्दुसदृशैर्नराः ॥ आचार्य्याः शुक्तिविशालैः शिरालैः पापकारिणः । उन्नताभिः शिराभिस्तु स्वस्तिकाभिर्धनेश्वराः ॥ निम्नैर्ललाटैर्वधार्हाः क्रूरकर्म्मरतास्तथा । संवृतैश्च ललाटैश्च कृपणा उन्नतैर्नृपाः ॥ ललाटोपसृतास्तिस्रो रेखाः स्युः शतवर्षिणाम् । नृपत्वं स्याच्चतसृभिरायुः पञ्चनवत्यथ ॥ अरेखेणायुर्नवतिर्विच्छिन्नाभिश्च पुंश्चलाः । केशान्तोपगताभिश्च अशीत्यायुर्नरो भवेत् ॥ पञ्चभिः सप्तभिः षड्भिः पञ्चाशद्बहुभिस्तथा । चत्वारिंशच्च वक्राभिस्त्रिंशद्भ्रूलग्नगामिभिः ॥ विंशतिर्व्वामवक्राभिरायुः क्षुद्राभिरल्पकम् । न पृथु बालेन्दुनिभे भ्रुवौ चाथ ललाटकम् ॥ शुभमर्द्धेन्दुसंस्थानमतुङ्गं स्यादलोमशम् ॥” इति गारुडे ६५ अध्यायः ॥ (“अतःपरं प्रत्यङ्गानि वक्ष्यन्ते । मस्तकोदरपृष्ठ- नाभिललाटनासाचिवुकवस्तिग्रीवा इत्येता एकै- काः ।” इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥)