संस्कृत-शब्दकोशः

ललाटपट्ट ललाम

ललाटिका

वाचस्पत्यम्

ललाटिका ||‍ स्त्री ललाटे आवध्यते ठन् । १ ललाटभूपणे (टीका) अमरः २ ललाटस्थे चिह्ने च ।


शब्दकल्पद्रुमः

ललाटिका || स्त्री (ललाटे भवोऽलङ्कारः । “कर्ण- ललाटात् कनलङ्कारे ।” ४ । ३ । ६५ । इति कन् ।)
स्वर्णादिरचितललाटाभरणम् । टिका इति ख्याता । तत्पर्य्यायः । पत्रपाश्या २ । इत्यमरः ॥ लालटस्थचन्दनम् । तत्पर्य्यायः । शङ्खचर्च्ची २ । इति शब्दरत्नावली ॥ (तिलकः । इति मल्लिनाथः ॥ यथा, कुमारे । ५ । ५५ । “तदा प्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका । न जातु बाला लभते स्म निर्वृतिं तुषारसङ्घातशिलातलेष्वपि ॥”)



Correction: