वाचस्पत्यम्
लाङ्गलिकी || स्त्री लाङ्गलमिवाकारेऽस्त्यस्याः ठन् गौ० ङीष् (विषलाङ्गला) १ वृक्षभेदे अमरः । तत्र भवः अण् २ विषभेदे पु० हेमच० ।
शब्दकल्पद्रुमः
लाङ्गलिकी || स्त्री (लाङ्गल + ठन् । ङीष् ।)
वृक्ष- विशेषः । लाङ्गलिया इति विषलाङ्गलिया इति च भाषा । तत्पर्य्यायः । अग्निशिखा २ । इत्यमरः ॥ अग्निज्वाला ३ लाङ्गलिका ४ लाङ्गली ५ । इति शब्दरत्नावली ॥ गैरी ६ दीप्ता ७ हलिनी ८ गर्भघातिनी ९ अग्नि- जिह्वा १० इन्द्रपुष्पा ११ अग्निमुखी १२ वह्नि- शिखा १३ । इति रत्नमाला ॥ अस्या गुणः । कुष्ठदुष्टव्रणनाशित्वम् । इति राजवल्लभः ॥ राजनिर्घण्टोक्तगुणपर्य्यायः कलिकारीशब्दे द्रष्टव्याः ॥