संस्कृत-शब्दकोशः

लाच्छ लाजा

लाज

वाचस्पत्यम्

लाज ||‍ न० लाज—अच् । १ उशीरे २ आर्द्रतण्डुले पु० मेदि० । ३ भृष्टधान्ये (खै) पु० ब० व० अमरः । स्त्रीत्वमप्यत्र मेदि० ।


वाचस्पत्यम्

लाज ||‍ भर्त्सने भ्वा० पर० सक० सेट् । लाजति अलाजीत् । इदि दयप्ययम् । लाञ्जति जलाञ्जीत् ।


शब्दकल्पद्रुमः

लाज || इ भर्त्सने । भर्गे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।)
द्बौ द्बितीय- स्वरिणौ । लाजति । इ, लाञ्ज्यते । भर्त्सन एव कैश्चित् पठ्यते । भर्गो भर्ज्जनम् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

लाजं || क्ली (लाज् + अच् ।)
उषीरम् । इति मेदिनी । जे, १५ ॥ (भृष्टधान्यम् । खै इति भाषा ॥ “येषां स्युस्तण्डुलास्तानि धान्यानि सतु- षाणि च । भृष्टानि स्फुटितान्याहुर्लाजानीति मनीषिणः ॥ लाजाः स्युर्म्मधुराः शीता लघवो दीपनाश्च ते ॥ स्वल्पमूत्रमला रूक्षा बल्याः पित्तकफच्छिदः । छर्द्द्यतीसारदाहास्रमेहमेदस्तृषापहाः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)


शब्दकल्पद्रुमः

लाजः || पुं, (लाज् + अच् ।)
आर्द्रतण्डुलः । इति मेदिनी । जे, १५ ॥


शब्दकल्पद्रुमः

लाज || भर्त्सने । भर्गे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।)
लाजति ॥



Correction: