वाचस्पत्यम्
लाभ || पु० लभ्यते लभ—लर्मणि घञ् । १ मूलधनादितोऽधिके लम्यमाने धने अमरः । भावे घञ् । २ प्राप्तौ ।
शब्दकल्पद्रुमः
लाभः || पुं, (लभ + घञ् करणे ।)
मूलधनादधिकं बाणिज्योपार्ज्जितं धनम् । तत्पर्य्यायः । फलम् २ । इत्यमरभरतौ ॥ लभ्यम् ३ वृद्धिः ४ । इति शब्दरत्नावली ॥ (यथा, रामायणे । २ । २२ । २२ । “सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ । यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म्म तत् ॥”)
प्राप्तिः । इति लभधात्वर्थदर्शनात् ॥ (सप्त- धर्म्म्यवित्तागमेषु अन्यतमः । यथा, मनुः । १० । ११५ । “सप्त वित्तागमा धर्म्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्म्मयोगश्च सत्प्रतिग्रह एव च ॥”)