वाचस्पत्यम्
लासिका || स्त्री लस—ण्वुल् । नर्त्तक्याम् अमरः । पृषो० लासकीत्यप्यत्र तट्टीका ।
शब्दकल्पद्रुमः
लासिका || स्त्री (लासोऽस्त्यस्या इति । लास + ठन् ।) नर्त्तकी । इत्यमरः ॥