संस्कृत-शब्दकोशः

लिप्तिका लिप्सु

लिप्सा

वाचस्पत्यम्

लिप्सा ||‍ स्त्री लभ सन्—भावे अ । १ लाभेच्छायाम् २ इच्छायां अमरः । “लिप्सास्रत्रे तृतीयवर्णक द्रव्यार्जननियमस्य क्रत्वर्थत्वमापादितं गुरुणा” मिता० ।


शब्दकल्पद्रुमः

लिप्सा || स्त्री (लब्धुमिच्छा । लभ + सन् + अः । टाप् ।)
इच्छा । इत्यमरः ॥ (यथा, हरि- वंशे । ३८ । २६ । “लिप्सां चक्रे प्रसेनात्तु मणिरत्ने स्यमन्तके । गोविन्दो न च तंलेभे शक्तोऽपि न जहार ह ॥”)



Correction: