वाचस्पत्यम्
लिम्पाक || पु० लिप आकन् पृषो० । १ जम्बीरभेदे (पातिलेवु) २ खरे च शब्दर० ।
शब्दकल्पद्रुमः
लिम्पाकं || क्ली निम्बूकविशेषः । पातिलेवु इति भाषा । तस्य गुणाः । सुरभित्वम् । स्वादुत्वम् । नात्यम्लत्वम् । भक्तरोचनत्वम् । वातश्लेष्महर- त्वम् । हृद्यत्वम् । छर्दिघ्नत्वम् । नातिपित्तकृत्त्वञ्च । इति राजवल्लभः ॥ (तथा च । “कर्षं शुद्धं मृतं ताम्रं लिम्पाकाङ्घ्रित्वचां पलम् ॥” इति रसेन्द्रसारसंग्रहे प्लीह्रि यकृदरिलौहे ॥)
शब्दकल्पद्रुमः
लिम्पाकः || पुं, जम्बीरः । खरः । इति शब्दरत्ना- वली ॥