वाचस्पत्यम्
लुट || गतौ चौर्य्ये च सक० खञ्जीभावे आलस्ये च अक० भ्वा० पर० सेट् इदित् । लुण्टति अलुण्टीत् ।
वाचस्पत्यम्
लुट || दीप्तौ अक० प्रतिघाते सक० भ्वा० आत्म० सेट् । लोटते सृदित् लुङि उभ० अलुटत् अलोटिष्ट ।
वाचस्पत्यम्
लुट || दीप्तौ चु० उभ० सक० सेट् । लोढयति ते अलूलुटत् त ।
वाचस्पत्यम्
लुट || बिलोडने, हरणे च दिवा० सक० पर० सेट् । लुट्यति अलुटत् । ऋदित् चङि वा ह्रस्वः ।
वाचस्पत्यम्
लुट || विलोडने सम्बन्धे च दिवा० सक० पर० सेट् । लुट्यति अलोटीत् । अत्रार्थे भ्वादिरपि । लोटति ।
वाचस्पत्यम्
लुट || हरणे भ्वा० पर० सक० सेट् इदित् । लुण्टति अलुण्टीत् ।
शब्दकल्पद्रुमः
लुट || इ ह्रुतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
इ, लुण्ट्यते । हृतिश्चौर्य्यम् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लुट || ऌ ॠ य विलोटविलोडनयोः । इति कवि- कल्पद्रुमः ॥ (दिवा०-पर०-विलोटे अक०-विलो- डने सक०-सेट् ।)
ऌ, अलुटत् । ॠ, अलूलु- टत् अलुलोटत् । य, लुट्यति । विलोटः सम्बन्धी- भावः । तत्र लुट्यन् सशोको भुवि रीरुदावान् । इति भट्टिः ॥ विलोडने लुट्यत्यट्टालकान् दुर्गान् कवाटानि च लोटति । इति हलायुधः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लुट || ऌ ङ दीप्तिप्रतिहत्योः । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-पुनर्हनने सक०-सेट् ।)
ऌ, अलुटत् । ङ, लोटते । प्रतिहतिः शोका- दिना पतनं पुनर्हवनं वा । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लुट || क भासे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।)
क, लोटयति । भासो दीप्तिः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लुट || विलोटविलोडनयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-विलोटे अक०-विलोडने सक०- सेट् ।)
लोटति । इति दुर्गादासः ॥