वाचस्पत्यम्
लुठित || त्रि० लुठ—क्त । भूमौ कृतभूरिदेहपरावर्त्तने ।
शब्दकल्पद्रुमः
लुठितः || त्रि (लुठ + क्तः ।)
मुहुर्भुवि परावृत्तः । श्रमशान्त्यर्थं पुनःपुनर्भूमौ लुठितोऽश्वः । तत्- पर्य्यायः । उपावृत्तः २ । इत्यमरभरतौ ॥ वेल्लितः ३ । इति शब्दरत्नावली ॥ अपावृत्तः ४ परावृत्तः ५ । इति हेमचन्द्रः ॥ (यथा, कथा- सरित्सागरे । १०२ । ७७ । “शिलाकलापो लुठितः किमञ्जनगिरेरयम् । किमुताकालकल्पान्तमेघौघः पतितो भुवि ॥”)