वाचस्पत्यम्
लुण्टाक || त्रि० लुटि—षाकन् । चौरे स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
लुण्टाकः || पुं, (लुण्टतीति । लुण्ट + “जल्पभिक्ष- कुट्टलुण्टवृङः षाकन् ।” ३ । २ । १५५ । इति षाकन् ।) चौरः । लुटधातोः षाकप्रत्ययेन निष्पन्नः ॥