लुण्टाकी
लुण्ठन
लुण्ठक
वाचस्पत्यम्
लुण्ठक || त्रि० लुठि—ण्वुल् । चौरे ।
शब्दकल्पद्रुमः
लुण्ठकः || त्रि (लुण्ठतीति । लुण्ठ + ण्वुल् ।)
स्तेय- कारकः । लुटेरा इति भाषा । यथा, —
“ये चौरा वह्रिना दुष्टा गरदा ग्रामलुण्ठकाः । सारमेयादने ते वै पात्यन्ते पातकान्विताः ॥” इति पाद्मे पातालखण्डम् ॥