वाचस्पत्यम्
लुप || आकुलीभावे दिवा० पर० अक० सेट् । लुप्यति अलुपत् अलोपीत् नित्यमङ् इत्येके ।
वाचस्पत्यम्
लुप || छेदने विनाशने च तु० मुचा० उभ० सक० अनिट् । लुम्पति ते अलुपत् अलुप्त । ऋदित् चङि वा ह्रस्वः । अलूलुपत् त अलुलोपत् त ।
शब्दकल्पद्रुमः
लुप || इर य युपि । इति कविकल्पद्रुमः ॥ (दिवा०- पर०-अक०-सेट् ।)
इर, अलुपत् अलोपीत । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । य, लुप्यति । युपि आकुलीभावे । पातुं लुप्यति लावण्यं नेत्राञ्जलिपुटैर्नरः । इति हलायुधः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लुप || ॠ श प ऌ ञ औ छेदे । इति कविकल्प- द्रुमः ॥ (तुदा०-उभ०-सक०-अनिट् ।)
ॠ, अलूलुपत् अलुलोपत् । श प ञ, लुम्पति लुम्पते । ऌ, अलुपत् । औ, लोप्ता । इति दुर्गादासः ॥