संस्कृत-शब्दकोशः

लुल लुलापकन्द

लुलाप

वाचस्पत्यम्

लुलाप ||‍ पुंस्त्री० लुल घञर्थे क तमाप्नोति अण् । महिषे अमरः स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

लुलापः || पुं, (लुल्यते इति । लुल विमर्द्दने + भिदा- दित्वात् अङ् । लुलां आप्नोतीति । आप् + अण् ।)
महिषः । इत्यमरः ॥ (यथा, दुर्गा- भक्तितरङ्गिण्याम् । “लुलापं खड्गेन छिन्धि छिन्धि ॥”)
(तथास्य पर्य्यायः । “महिषो घोटकारिः स्यात्कासरश्च रज- स्वलः । पीनस्कन्धः कृष्णकायो लुलापो यमवाहनः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)



Correction: