संस्कृत-शब्दकोशः

लू लूतारि

लूता

वाचस्पत्यम्

लूता ||‍ स्त्री लू—तक् । कीटभेदे (माकड्सा) अमरः । स्वार्थे क अत इत्त्वम् । तत्रैव । २ पिपीलिकायां ३ रोगभेदे (मर्म्मव्रणे) मेदि० ।


शब्दकल्पद्रुमः

लूता || स्त्री (लूनातीति । लू + बाहुलकात् तन् । गुणाभावश्च ।)
कीटविशेषः । माकड्सा इति भाषा । तत्पर्य्यायः । तन्तुवायः २ ऊर्णनाभः ३ मर्कटकः ४ । इत्यमरः ॥ मर्कटः ५ लूतिका ६ ऊर्णनाभिः ७ शनकः ८ तन्त्रवायः ९ । इति शब्दरत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् । ५०४ । “लूतातन्तुनिरुद्धद्वारः शून्यालयः पतत्पतगः । पथिके तस्मिन्नञ्चलपिहितमुखो रोदितीव सखि ! ॥”)
पिपीलिका । रोगविशेषः । इति मेदिनी । ते, ५२ ॥ शेषस्य पर्य्यायः । मर्म्मव्रणः २ वृक्का ३ । इति राजनिर्घण्टः ॥ तद्रोगस्य निदानादि लूतानां जन्तुबिशेषाणामुत्पत्तिं संख्याञ्चाह । “यस्माल्लूनतृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः । तेभ्यो जातास्ततो लूता इति ख्यातास्तु षोडश ॥” अत्र सुश्रुतः । “विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम् । वशिष्ठं कोपयमास गत्वाश्रमपदं किल ॥ कुपितस्य मुनेस्तस्य ललाटे स्वेदबिन्दवः । अपतन् दर्शनादेव ह्यधस्तात्तीव्रवर्च्चसः ॥ लूते तृणे महर्षेस्तु धेन्वर्थे संभृतेऽपि च । ततो जातास्त्विमा घोरा नानारूपा महा- विषाः । तासामष्टौ कष्टसाध्या वर्ज्यास्तावत्य एव हि ॥” तत्र तृणमण्डलाप्रभृतयोऽष्ट कष्टसाध्याः । सौवर्णिकाप्रभृतयोऽष्टावसाध्याः । तासां सामा- न्यतो दंशलक्षणमाह । “ताभिर्दष्टे दंशकोऽप्यप्रवृत्तिः क्षतजस्य च । ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदो- षजाः ॥ पिडिका विविधाकारा मण्डलानि महान्ति च । शोथा महान्तो मृदवो रक्ताः श्यावाश्चला- स्तथा । सामान्यं सर्व्वलूतानामेतद्दंशस्य लक्षणम् ॥” दंशकोऽप्यदंशमध्ये पूतिभावः । “दंशमध्ये तु यत् कृष्णं श्यावं वा जालकावृ- तम् । दग्धाकृति भृशं पाकं क्लेदशोथज्वरान्वितम् । दूषीविषाभिर्लूताभिस्तद्दष्टमिति निर्द्दिशेत् ॥” सौवर्णिकादयोऽष्टावसाध्यप्राणहरास्तासां लक्षणमाह । “शोथः श्वेतासिता रक्ता पीता च पिडिका ज्वरः । प्राणान्तिको भवेद्दाहः श्वासो हिक्का शिरो- ग्रहः ॥ * ॥
तस्यौषधं यथा, —
“रजनीयुग्मपत्तङ्गमञ्जिष्ठानागकेशरैः । शीताम्बुपिष्टैरालेपः सद्यो लूतां विनाशयेत् ॥” अपि च । “अभयां रोचनां कुष्ठमर्कपुष्पं तथोत्पलम् । नलवेतसमूलानि गरलं सुरसां तथा ॥ सकलिङ्गं समञ्जिष्ठामनन्ताञ्च शतावरीम् । शृङ्गाटकं समङ्गाञ्च पद्मकेशरमित्यपि ॥ कल्कीकृत्य पचेत् सर्पिः पयो दद्याच्चतुर्गुणम् । सम्यक् पक्वेऽवतीर्णे च शीते तस्मिन् विनिः । क्षिपेत् ॥ सर्पिस्तुल्यं भिषक् क्षौद्रं कृतरक्षं निधापयेत् । विषाणि हन्ति दुर्गाणि गरदोषकृतानि च ॥ स्पर्शाद्धन्ति विषं सर्व्वं गरैरुपहतां त्वचाम् । योगजन्तमकं कण्डुं मांससादं विसंज्ञताम् ॥ नाशयत्यञ्जनाभ्यङ्गं पानवस्तिषु योजितम् । सर्पकीटाखुलूतादिदष्टानां विषहृत् परम् ॥” मृत्युपाशच्छेदि घृतम् । इति भावप्रकाशः ॥ (तथा च । “कोटिभ्यो दारुणतरा लूताः षोडश ता जगुः । अष्टाविंशतिरित्येके ततोऽप्यन्ये तु भूयसीः ॥ सहस्ररश्म्यनुचरा वदन्त्यन्ये सहस्रशः । बहूपद्रवरूपा तु लूतैकैव विषात्मिका ॥ रूपाणि नामतस्तस्या दुर्ज्ञेयान्यतिसङ्करात् । नास्ति स्थानव्यवस्था च दोषतोऽतः प्रचक्षते ॥ कृच्छ्रसाध्या पृथग्दोषैरसाध्या निचयेन सा । तद्दंशः पैत्तिको दाहतृट्स्फोटज्वरदाहवान् ॥ भृशोष्मा रक्तपीताभः क्लेदी द्राक्षाफलोपमः । श्लैष्मिकः कठिनः पाण्डुः परूषकफलाकृतिः ॥ निद्रां शीतज्वरं कासं कण्डूञ्च कुरुते भृशम् । वातिकः परुषः श्यावः पर्व्वभेदज्वरप्रदः ॥ तद्विभागं यथास्वञ्च दोषलिङ्गैर्विभावयेत् । असाध्यायान्तु हृन्मोहश्वासहिक्काशिरो- रुजाः ॥ श्वेताः पीताः सिता रक्ताः पिटिकाः श्वयथू- द्भवाः ॥ वेपथुर्व्वमथुर्दाहस्तृडान्ध्यं वक्रनासता । श्यावोऽष्ठवक्त्रदन्तत्वं पृष्ठग्रीवावभञ्जनम् ॥ पक्वजम्बूसवर्णञ्च दंशात् स्रवति शोणितम् । सर्व्वापि सर्व्वजा प्रायो व्यपदेशस्तु भूयसा ॥ तीक्ष्णमध्यावरत्वेन सा त्रिधा हन्त्युपेक्षिताः । सप्ताहेन दशाहेन पक्षेण च परं क्रमात् ॥ लूतादंशश्च सर्व्वोऽपि दद्रुमण्डलसन्निभः । सितोऽसितोऽरुणः पीतः श्यावो वा मृदुरु- न्नतः ॥ मध्ये कृष्णोऽथवा श्यावः पर्य्यन्ते जाल- कावृतः । विसर्पवान् शोफयुतस्तप्यते बहुवेदनः ॥ ज्वराशुपाकविक्लेदकोदावदरणान्वितः । क्लेदेन यत् स्पृशत्यङ्गं तत्रापि कुरुते व्रणम् ॥ श्वासदंष्ट्राशकृन्मूत्रशुक्रलालानखार्त्तवैः । अष्टाभिरुद्वमत्येषा विषं वक्त्रैर्व्विशेषतः ॥ लूता नाभेर्द्दशत्यूर्द्ध्वमूर्द्ध्वं वाधश्च कीटकाः । तद्दूषितञ्च वस्त्रादिदेहे पृक्तं विकारकृत् ॥ दिनार्द्ध लक्ष्यते नैव दंशो लूताविषोद्भवः । सूचीव्यधवदाभाति ततोऽसौ प्रथमेऽहनि ॥ अव्यक्तवर्णः प्रचलः किञ्चित् कण्डूरुजान्वितः । द्वितीयेऽभ्युन्नतोऽन्तेषु पिटकैरिव वाचितः ॥ व्यक्तवर्णो नतो मध्ये कण्डूमान् ग्रन्थिसन्निभः । तृतीये सज्वरो रोमहर्षकृद्रक्तमण्डलः ॥ शरावरूपस्तोदाढ्यो रोमकूपेषु सस्रवः । महांश्चतुर्थे श्वयथुस्तापश्वासभ्रमप्रदः ॥ विकारान् कुरुते तांस्तान् पञ्चमे विषकोपजान् । षष्ठे व्याप्नोति मर्म्माणि सप्तमे हन्ति जीवितम् ॥ इति तीक्ष्णं विषं मध्यं हीनञ्च विभजेदतः । एकविंशतिरात्रेण विषं शाम्यति सर्व्वथा ॥ अथाशु लूतादष्टस्य शस्त्रेणादंशमुद्धरेत् । दहेच्च जाम्बवौष्ठाद्यैर्न तु पित्तोत्तरं दहेत् ॥ कर्कशं भिन्नरोमाणं मर्म्मसन्ध्यादिसंश्रितम् । प्रसृतं सर्व्वतो दंशं नच्छिन्दीत दहेन्न च ॥ लेपयेद्दग्धमगदैर्म्मधुसैन्धवसंयुतैः । सुशीतः सेचयेच्चानुकषायैः क्षीरिवृक्षजः ॥ सर्व्वतोऽपहरेद्रक्तं शृङ्गाद्यैः सिरयापिवा । सेका लेपास्ततः शीता बोधिश्लेष्मान्तकाक्षरैः ॥ फलिनीद्विनिशाक्षौद्रसर्पिर्भिः पद्मकाह्वयः । अशेषलूताकीटानामगदः सर्व्वकार्म्मिकः ॥” “रोध्रं सेव्यं पद्मकं पद्मरेणुः कालीयाख्यं चन्दनं यच्च रक्तम् । कान्ता पुष्पं दुग्धिनीका मृणालं लूताः सर्व्वा घ्नन्ति सर्व्वक्रियाभिः ॥” इति वाग्भटे उत्तरस्थाने ३७ अध्यायः ॥)



Correction: