वाचस्पत्यम्
लून || त्रि० लू—क्त निष्टातस्य नः । छिन्ने अमरः ।
शब्दकल्पद्रुमः
लूनः || त्रि (लूयते स्मेति । लू + क्तः । “ल्वादिभ्यः ।” ८ । २ । ४४ । इति निष्ठातस्य नः ।)
छिन्नः । इत्यमरः ॥ (यथा, कथासरित्सागरे । २७ । १४३ । “दैवेन वैरिणा संख्ये लूनबाहुवनः कृतः ॥” उपचितः । यथा, कुमारे । ३ । ६१ । “तस्याः सखीभ्यां प्रणिपातपूर्ब्बं स्वहस्तलूनः शिशिरात्ययस्य । व्यकीर्य्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥”)