वाचस्पत्यम्
लेखक || पु० लिख—ण्वुल् । लिपिकरे अमरः । लेखकलक्षणादि मत्स्यपु० १८९ अ० उक्तं यथा “सर्वदेश क्षराभिज्ञः सर्वशास्त्रविशारदः । लेखकः कथितो राज्ञः सर्वाधिकरणेषु वै । शीर्षोपेतान् सुसम्पूर्णान् समश्रेणिगतान् समान् । अक्षरान् वै लिखेद् यस्तु लेखकः स वरः स्मृतः । उपायवाक्यकुशलः सर्वशास्त्रविशारदः । बह्वर्थवक्ता चाल्पेन लेखकः स्याद् भृगूत्तम! । वाक्या- भिप्रायतत्त्वज्ञो देशकालविभागवित् । अनाहार्य्यो नृपे भक्तो लेखकः स्याद् भृगूद्वह” । “सकृदुक्तगृहीतार्थो लघु- हस्तो जिताक्षरः । सर्वशास्त्रसमालोकी प्रकृष्टो नाम लेखकः” चाणक्यः राजलेखकलक्षणं तु पत्रकौमुद्यामुक्तं यथा “ब्राह्मणो मन्त्रणाभिज्ञो राजनीतिविशारदः । नानालिपिज्ञो मेधावी नानाभाषासमन्वितः । मन्त्रणा- चतुरो धीमान् नीतिशास्त्रार्थकोविदः । सन्धिविग्रह- भेदज्ञो राजकार्य्ये विचक्षणः । सदा राज्ञो हितान्वेषी राजसन्निधिसंस्थितः । कार्य्याकार्य्यविचारज्ञः सत्यवादी जितेन्द्रियः । स्वरूपवादी शुद्धात्मा धर्मज्ञो राजधर्मवित् । एवमादिगुणैर्युक्तः स एव नृपलेखकः । नृपानुवर्त्ती सततं नृपविश्वासरक्षकः । नृपतेर्हितकान्वेषी स एव राज- लेखकः” । “लेखकानपि कायस्थान् लेख्यकृत्ये विचक्ष- णान्” पराशरेणोक्तं कायस्थस्य लेखकत्वं विवादान्तर्गत- विषयलेखने एव न पुस्तकादौ अब्राह्मणलिखितपुस्तकस्य पाठनिषेधात् ।
शब्दकल्पद्रुमः
लेखकः || पुं, (लिखतीति । लिख् + ण्वुल् ।)
लेखनकर्त्ता । तत्पर्य्यायः । लिपिकरः २ अक्षर- चनः ३ अक्षरचुञ्चुः ४ । इत्यमरः । २ । ८ । १५ ॥ वोलकः ५ करकः ६ मसीपण्यः ७ करप्रणीः ८ । इति शब्दरत्नावली ॥ वर्णी ९ । इति जटा- धरः ॥ * ॥
तस्य लक्षणानि यथा, —
“सर्व्वदेशाक्षराभिज्ञः सर्व्वशास्त्रविशारदः । लेखकः कथितो राज्ञः सर्व्वाधिकरणेषु वै ॥ शीर्षोपेतान् सुसंपूर्णान् समश्रेणिगतान् समान् । अक्षरान् वै लिखेद्यस्तु लेखकः स वरः स्मृतः ॥ उपायवाक्यकुशलः सर्व्वशास्त्रविशारदः । बह्वर्थवक्ता चाल्पेन लेखकः स्याद्भृगूत्तम ॥ वाक्याभिप्रायतत्त्वज्ञो देशकालविभागवित् । अनाहार्य्यो नृपे भक्तो लेखकः स्याद्भृगूत्तम ॥” इति मात्स्ये १८९ अध्यायः ॥ * ॥
अपि च । “सकृदुक्तगृहीतार्थो लघुहस्तो जिताक्षरः । सर्व्वशास्त्रसमालोकी प्रकृष्टो नाम लेखकः ॥” इति चाणक्यसंग्रहः ॥ * ॥
राजलेखकलक्षणं यथा, —
“ब्राह्मणो मन्त्रणाभिज्ञो राजनीतिविशारदः । नानालिपिज्ञो मेधावी नानाभाषासमन्वितः ॥ मन्त्रणाचतुरो धीमान् नीतिशास्त्रार्थकोविदः । सन्धिविग्रहभेदज्ञो राजकार्य्ये विचक्षणः ॥ सदा राजहितान्वेषी राजसन्निधिसंस्थितः । कार्य्याकार्य्यविचारज्ञः सत्यवादी जितेन्द्रियः ॥ स्वरूपवादी शुद्धात्मा धर्म्मज्ञो राजधर्म्मवित् । एवमादिगुणैर्युक्तः स एव राजलेखकः ॥ नृपानुवर्त्ती सततं नृपविश्वासरक्षकः । नृपतेर्हितकान्वेषी स एव राजलेखकः ॥” इति पत्रकौमुदी ॥ * ॥
लेख्यकर्म्म कायस्थेन कर्त्तव्यम् । यथा, —
“लेखकानपि कायस्थान् लेख्यकृत्ये विचक्ष- णान् ॥” कुर्य्यादितिशेषः । इति पराशरसंहितायाम् १० अध्यायः ॥ (गणेशस्तु महाभारतस्य लेखकः । यथा, महाभारते । १ । १ ७८ — ७९ । “श्रुत्वैतत् प्राह विघ्नेशो यदि मे लेखनी क्षणम् । लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम् ॥ व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित् । ॐमित्युक्त्वा गणेशोऽपि बभूव किल लेखकः ॥”)