वाचस्पत्यम्
लोकलोचन || पु० लोकेलाच्यतेऽनेन लुच ल्युट् । १ सूर्ये शब्दर० लोकस्य लोचनमिव । सूर्य्ये न० । लोकनेत्रादयोऽप्यत्र न०
शब्दकल्पद्रुमः
लोकलोचनं || क्ली (लोकानां लोचनमिव ।)
सूर्य्यः । इति शब्दरत्नावली ॥ (जनस्य लोचनञ्च । कथा, कथासरित्सागरे । १८ । ९२ । “सोऽश्वस्तत्पार्ष्णिघातेन यन्त्रेणेवेरितः शरः । जगाम क्वाप्यतिजवादलक्ष्यो लोकलोचनैः ॥”)