संस्कृत-शब्दकोशः

लोकायत लोकालोक

लोकायतिक

वाचस्पत्यम्

लोकायतिक ||‍ पु० लोलायतं तन्मतम् अस्त्यस्य ठन् । चार्वाके ।


शब्दकल्पद्रुमः

लोकायतिकः || पुं, (लोकायतं शास्त्रमस्त्यस्येति । लोकायत + ठन् ।)
चार्व्वाकः । इति हेम- चन्द्रः ॥ (तार्किकः । यथा, हरिवंशे । २४९ । ३० । “ऐक्यनामात्मसंयोगसमवायविशारदैः । तोकायतिकमुख्यैश्च शुश्रुवुः स्वनमीरितम् ॥”)



Correction: