वाचस्पत्यम्
लोचमस्तक || पु० लोच्यते लोचं मस्तकं यस्य । मयूर- शिखायाम् अमरः ।
शब्दकल्पद्रुमः
लोचमस्तकः || पुं, (लोचं दृश्यं मस्तकं मयूरशिखेव यस्य ।)
मयूरशिखौषधम् । रुद्रजटा इति ख्यातः । क्षेत्रयमानिकेति केचित् । तत्पर्य्यायः । खराश्वा २ कारवी ३ दीप्यः ४ भयूरः ५ । इत्यमरः ॥ लोचमर्कटः ६ । इति भरतः ॥