लोचिका
लोटुल
लोट
वाचस्पत्यम्
लोट(ड) || उन्मादे भ्वा० पर० सक० सेट् । लोट(ड)ति । अलोटी(डो)त् । ऋदित चङि न ह्रस्वः ।
शब्दकल्पद्रुमः
लोट || ऋ उन्मादे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।)
ऋ, अलुलोटत् । लोटति लोकः उन्माद्यतीत्यर्थः । इति दुर्गादासः ॥