संस्कृत-शब्दकोशः

लोणतृण लोणाम्ला

लोणा

वाचस्पत्यम्

लोणा ||‍ स्त्री लवणमस्त्यस्याः भक्षणसपये अपेक्ष्यत्वेन अच् । १ क्षुद्राम्लिकायाम् राजनि० । लोणाम्लाप्यत्र राजनि०


शब्दकल्पद्रुमः

लोणा || स्त्री (लवणमस्त्यस्या इति । अच् । टाप् । पृषोदरादित्वात् साधुः ।)
क्षुद्राम्लिका । इति राजनिर्घण्टः ॥ (तथास्याः पर्य्यायः । “लोणा लोणी च कथिता बृहल्लोणी तु घोटिका ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: