वाचस्पत्यम्
लोत || न० लू—तन् । १ चोरितधने, लोप्त्रे (वमाल) जटाधरः ३ चिह्ने सि० कौ० । ४ नेत्राम्बुन त्रिका० ५ लवणे च
शब्दकल्पद्रुमः
लोतं || क्ली (लुनातीति । लू + “हसिमृग्रिणिति ।” उणा० ३ । ८६ । इति तन् ।)
स्तेयधनम् । तत्पर्य्यायः । लोप्त्रम् २ । इति जटाधरः ॥ लोप्त्री ३ लोत्रम् ४ लुम्पम् ५ । इति शब्दरत्ना वली ॥
शब्दकल्पद्रुमः
लोतः || पुं, क्ली, (लुनातीति । लू + “हसिमृग्रि- णिति ।” उणा० ३ । ८६ । इति तन् ।)
नेत्राम्बु । इति त्रिकाण्डशेषः ॥ चिह्नम् । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥ लवणम् । अश्रुपातः । इति संक्षिप्तसारोणादिवृत्तिः ॥