वाचस्पत्यम्
लोप्त्र || न० लुप—ष्ट्रन् । स्तेयधने स्त्रीत्वमपीच्छति तत्पक्षे ङीष् ।
शब्दकल्पद्रुमः
लोप्त्रं || क्ली (लुप् + ष्ट्रन् ।)
स्तेयधनम् । लोतम् । इत्यमरः ॥ (यथा, महाभारते । १ । १०७ । ५ । “ते तस्यावसथे लोप्त्रं दस्यवः कुरुसत्तम ! । निधाय च भयाल्लीनास्तत्रैवानागते बले ॥”)