वाचस्पत्यम्
लोभिन् || त्रि० लुभ—णिनि । परद्रव्येषु अतितृष्णावति जटा० ।
शब्दकल्पद्रुमः
लोभी || [न्] त्रि, (लोभोऽस्यास्तीति । लोभ + इनिः ।)
लोभयुक्तः । तत्पर्य्यायः । गृध्नुः २ गर्द्धनः ३ लुब्धः ४ अभिलाषुकः ५ तृष्णकः ६ लोलुपः ७ लोलुभः ८ । इति जटाधरः ॥ लिप्सुः ९ । इति हेमचन्द्रः ॥