संस्कृत-शब्दकोशः

लोमकरणी लोमकूप

लोमकर्ण

वाचस्पत्यम्

लोमकर्ण ||‍ पुंस्त्री लोमबहुलः कर्णो यस्य शाक० । शशके हेमच० तत्कर्णस्य लोमशत्पात्तथात्वम् स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

लोमकर्णः || पुं, (लोमयुक्तौ कर्णौ यस्य ।)
शशकः । इति हेमचन्द्रः ॥ (अस्य पर्य्यायो यथा, —
“लम्बकर्णः शशः शूली लोमकर्णो विलेशयः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)
लोमयुक्तकर्णविशिष्टे, त्रि ॥



Correction: