संस्कृत-शब्दकोशः

लोमघ्न लोमपाद

लोमन्

वाचस्पत्यम्

लोमन् ||‍ पु० लू—मनिन् । देहस्थे केशतुल्य (रो—या) षदार्थे अमरः ।


शब्दकल्पद्रुमः

लोम || [न्] क्ली, (लूयते छिद्यते इति । ल + “नामन्सीमन्व्योमन्रोमन्लोमन्पाप्मन्ध्यामन् ।” उणा० ४ । १५० । इति मनिन्प्रत्ययेन साधुः ।)
शरीरस्थकेशः । तत्पर्य्यायः । तनूरुहम् २ रोम ३ । इत्यमरः ॥ तनुरुहम् ४ तनुरुट् ५ । इति शब्दरत्नावली ॥ (यथा, मुण्डकोपनिषदि । १ । १ । ७ । “यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथाक्षरात् सम्भवतीह विश्वम् ॥”)
तत्तु गर्भस्थस्य षष्ठे मासि भवति । इति सुख- बोधः ॥ अपि च । “षष्ठे मासि च नारीणां वैदिके नाधिकारिता । उदरस्थस्य बालस्य नखलोमप्रवर्त्तनात् ॥” इति स्मृतिः ॥ (तथास्य विवृतिः । “अस्थो मलानि लोमानि असङ्ख्यानि भवन्ति हि । सन्ति यावन्ति लोमानि तावन्तो लोम- कूपकाः ॥ अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते । सन्निवेशञ्च गात्राणां नात्रास्ते कारणान्तरम् ॥” निर्वृत्तिः सिद्धिः स्वभावात् ईश्वरात् । सन्निबेशो रचनाविशेषः । इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: