वाचस्पत्यम्
लोमशपुष्पक || पु० लोमशमिव पुष्पमस्य कप् । शिरीषवृक्षे राजनि० ।
शब्दकल्पद्रुमः
लोमशपुष्पकः || पुं, (लोमशानि पुष्पाणि यस्य । कप् ।) शिरीषवृक्षः । इति राजनिर्घण्टः ॥