वाचस्पत्यम्
लोष्ट || पुंन० लोष्ट—अच् । १ मृत्पिण्डे (ढेला) अमर । २ लौह- मले राजनि० ।
वाचस्पत्यम्
लोष्ट || संहतौ राशीकरणे भ्वा० आ० सक० सेट् । लोष्टति अलोष्टिष्ट ।
शब्दकल्पद्रुमः
लोष्टं || क्ली (लोष्टते इति । लोष्ट + अच् ।)
लौहमलम् । इति राजनिर्घण्टः ॥ लेष्टुः । इत्यमरः ॥
शब्दकल्पद्रुमः
लोष्ट || ङ संहतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।)
ङ, लोष्टते धान्यं लोकः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लोष्टः || पुं क्ली, (लोष्ट्यते इति । लोष्ट + घञ् । यद्वा, लूयते इति । लू + “लोष्टपलितौ ।” उणा० ३ । ९२ । इति क्तप्रत्ययेन निपातितः ।)
मृत्तिकाखण्डम् । डेला इति भाषा । तत्- पर्य्यायः । लोष्टुः २ । इति शब्दरत्नावली अम- रश्च ॥ लोष्टुः ३ दलिः ४ । इति हेमचन्द्रः ॥ (यथा, वेतालपञ्चविंशत्याम् । १ । “अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित्पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥”)